संस्कृत भाषा विश्वस्य प्राचीनतमा भाषा इति !
लौकिकीवैदिकी चेयं!
लौकिकसंस्कृतस्य विकासः विभागो वा वेदेभ्य एवाभूत् ।अतः वेदानां सम्यग्बोधाय वेदस्य षडङ्गत्वेन विभागं विहितम्।
तानि च षडङ्गानि-
१.शिक्षा
२.कल्प
३.व्याकरणम्
४.निरुक्त
६.छन्द
७.ज्योतिष
उक्तं च पाणिनी शिक्षायाम् ---
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पाठ्यते।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते॥
शिक्षा घ्राणं तु वेदस्य मुखं व्यकरणं स्मृतम्।
तस्मात् सांगमधीत्यैव ब्रह्मलोके महीयते॥
यथा शरीरे मुखं प्रधानं भवति तथैव षट्सु अङ्गेषु व्याकरणं मुखम्।
संस्कृताध्ययन समये व्याकरणस्यावश्यंपठनीयता एवमुद्दिष्टम् ---
यद्यपि बहु नाधीषे तथाऽपि पठ पुत्र व्याकरणम्।
स्वजनः श्वजनो माभूत् सकलं शकलं सकृच्छकृत्॥
0 टिप्पणियाँ